मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योमभूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥१॥
manobuddhyahaṃkāracittāni nāhaṃ na ca śrotrajihve na ca ghrāṇanetre | na ca vyomabhūmirna tejo na vāyuḥ cidānandarūpaḥ śivo'haṃ śivo'ham ||1||
न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुर्न वा पञ्चकोशः । न वाक्पाणिपादं न चोपस्थपायू चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥२॥
na ca prāṇasaṃjño na vai pañcavāyuḥ na vā saptadhāturna vā pañcakośaḥ | na vākpāṇipādaṃ na copasthapāyū cidānandarūpaḥ śivo'haṃ śivo'ham ||2||
न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥३॥
na me dveṣarāgau na me lobhamohau mado naiva me naiva mātsaryabhāvaḥ | na dharmo na cārtho na kāmo na mokṣaḥ cidānandarūpaḥ śivo'haṃ śivo'ham ||3||
न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थो न वेदा न यज्ञः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥४॥
na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ na mantro na tīrtho na vedā na yajñaḥ | ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā cidānandarūpaḥ śivo'haṃ śivo'ham ||4||
न मे मृत्युशङ्का न मे जातिभेदः (अथवा) न मृत्युर्न शङ्का न मे जातिभेदः पिता नैव मे नैव माता न जन्म । न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥५॥
na me mṛtyuśaṅkā na me jātibhedaḥ (athavā) na mṛtyurna śaṅkā na me jātibhedaḥ pitā naiva me naiva mātā na janma | na bandhurna mitraṃ gururnaiva śiṣyaḥ cidānandarūpaḥ śivo'haṃ śivo'ham ||5||
अहं निर्विकल्पो निराकाररूपः विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् (अथवा) विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम् । न चासङ्गतं नैव मुक्तिर्न मेयः (अथवा) सदा मे समत्वं न मुक्तिर्न बन्धः चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥६॥
ahaṃ nirvikalpo nirākārarūpaḥ vibhutvācca sarvatra sarvendriyāṇām (athavā) vibhurvyāpya sarvatra sarvendriyāṇām | na cāsaṅgataṃ naiva muktirna meyaḥ (athavā) sadā me samatvaṃ na muktirna bandhaḥ cidānandarūpaḥ śivo'haṃ śivo'ham ||6||